|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.194. अध्यायः 194
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
प्रमथैर्ऋषिगणान्प्रति प्रजानां स्वहिंसातदभावकारणाभिधानम्॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Text
भीष्म उवाच।
ततः सर्वे महाभागा देवाश्च पितरश्च ह।
ऋषयश्च महाभागाः प्रमथान्वाक्यमब्रुवन्॥ 13-194-1(89040)
भवन्तो वै महाभागा अपरोक्षनिशाचराः।
उच्छिष्टानशुचीन्क्षुद्रान्कथं हिसथ मानवान्॥ 13-194-2(89041)
के च स्मृताः प्रतीघाता येन मर्त्यान्न हिंसथ।
रक्षोघ्नानि च कानि स्युर्यैर्गृहेषु प्रणश्यथ।
श्रोतुमिच्छाम युष्माकं सर्वमेतन्निशाचराः॥ 13-194-3(89042)
प्रमथा ऊचुः। 13-194-4x(7430)
मैथुनेन सदोच्छिष्टाः कृते चैवाधरोत्तरे।
मोहान्मांसानि खादेत वृक्षमूले च यः स्वपेत्॥ 13-194-4(89043)
आमिषं शीर्षतो यस्य पादतो यश्च संविशेत्।
तत उच्छिष्टकाः सर्वे बहुच्छिद्राश्च मानवाः॥ 13-194-5(89044)
उदके चाप्यमेध्यानि श्लेष्माणं च प्रमुञ्चति।
एते भक्ष्याश्च वध्याश्च मानुषा नात्र संशयः॥ 13-194-6(89045)
एवं शीलसमाचारान्धर्षयामो हि मानवान्।
श्रूयतां च प्रतीघातान्यैर्न शक्नुम हिंसितुम्। 13-194-7(89046)
गोरोचनासमालम्भो वचाहस्तश्च यो भवेत्।
घृताक्षतं च यो दद्यान्मस्तके तत्परायणः॥ 13-194-8(89047)
ये च मांसं न खादन्ति तान्न शक्नुम हिंसितुम्।
यस्य चाग्निर्गृहे नित्यं दिवारात्रौ च दीप्यते॥ 13-194-9(89048)
तरक्षोश्चर्मदंष्ट्राश्च तथैव गिरिकच्छपः।
आज्यधूमो बिडालश्च च्छागः कृष्णोऽत पिङ्गलः॥ 13-194-10(89049)
येषामेतानि तिष्ठन्ति गृहेषु गृहमेधिनाम्।
तान्यधृष्याण्यगाराणि पिशिताशैः सुदारुणैः॥ 13-194-11(89050)
लोकानस्मद्विधा ये च विचरन्ति यथासुखम्।
तस्मादेतानि गेहेषु रक्षोघ्नानि विशाम्पते।
एतद्वः कथितं सर्वं यत्र वः संशयो महान्॥] ॥ 13-194-12(89051)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि चतुर्नवत्यधिकशततमोऽध्यायः॥ 194 ॥
Mahabharata - Anushaasana Parva - Chapter Footnotes
7-194-4 अधरोत्तरे अधर उत्तरः श्रेष्ठो यत्र श्रेष्ठस्यावमाने कृते सति॥ 7-194-5 आमिषं मांसं शिरसि दधानः। पादतः शय्यायां पादस्थाने शिरः कृत्वा यः संविशेत्॥ 7-194-10 तरक्षोर्व्याघ्रस्य। गिरिकच्छपःक पर्वतदरीशायी स्थलकूर्मः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|